|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.90. अध्यायः 090
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति उचथ्यमान्धातृसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-90-0x(5577)(68295)
आनङ्गिराः क्षत्रधर्मानुचध्यो ब्रह्मवित्तमः।
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत॥ 12-90-1(68296)
स यथाऽनुशशासैजमुचध्यो ब्रह्मवित्तमः।
तत्तेऽहं संप्रवक्ष्यामि निखिलेन युधिष्ठिर॥ 12-90-2(68297)
उचथ्य उवाच। 12-90-3x(5578)
धर्माम राजा भवति न कामकरणाय तु।
मान्यातरभिजानीहि राजा लोकस्य रक्षिता॥ 12-90-3(68298)
राजा चरति चेद्धर्मं देवत्वायैव कल्पते।
स चेदधर्मं चरति नरकायैव गच्छति॥ 12-90-4(68299)
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठाति।
तं राजा साधु यः शास्ति स राजा श्रियमश्नुते॥ 12-90-5(68300)
राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते॥ 12-90-6(68301)
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते।
तदेव मङ्गलं लोकः सर्वः समनुवर्तते॥ 12-90-7(68302)
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्।
भयमाहुर्दिवारात्रं यदा पापा न वार्यते॥ 12-90-8(68303)
इदं मम इदं नेति साधूनां तात धर्मतः।
न वै व्यवस्था भवति यदा पापो न वार्यते॥ 12-90-9(68304)
नैव भार्या न पशवो न क्षेत्रं न निवेशनम्।
संदृश्येत मनुष्याणां यदा पापबलं भवेत्॥ 12-90-10(68305)
देवाः पूजां न जानन्ति न स्वधां पितरस्तदा।
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते॥ 12-90-11(68306)
न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते॥ 12-90-12(68307)
वध्यानामिव सत्वानां मनो भवति विह्वलम्।
मनुष्याणां महाराज यदा पापो न वार्यते॥ 12-90-13(68308)
उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा।
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति॥ 12-90-14(68309)
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते।
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः॥ 12-90-15(68310)
वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम्।
वृषलं तं वीवदुर्देवास्तस्माद्धर्मं न लोपयेत्॥ 12-90-16(68311)
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं विवर्धयेत्॥ 12-90-17(68312)
धनानि स्पौति धर्मो हि धारणाद्वेति निश्चयः।
मानवान मनुष्येन्द्र स सीमान्तकरः स्मृतः॥ 12-90-18(68313)
प्रभवार्थंमहि भूतानां धर्मः सृष्टः स्वयंभुवा।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्॥ 12-90-19(68314)
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः।
स राजायः प्रजाः शास्ति साधुकृत्पुरुषर्षभ॥ 12-90-20(68315)
कामक्रोधावनादृत्य धर्ममेवानुपालयेत्।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम॥ 12-90-21(68316)
धर्मस्य ब्राह्मणे योनिस्तस्मात्तान्पूजयेत्सदा।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी॥ 12-90-22(68317)
तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्।
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि॥ 12-90-23(68318)
ब्राह्मणानां सदासूयन्बाल्याद्वैरोचनिर्बलिः।
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी॥ 12-90-24(68319)
ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम्।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे॥ 12-90-25(68320)
एतत्फलमसूयाया अभिमानस्य चाभिभो।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी॥ 12-90-26(68321)
दर्पोनाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः।
तेन देवासुरा राजन्नीताः सुबहवोऽव्ययम्॥ 12-90-27(68322)
राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव।
राजा भवति तं जित्वा दासस्तेन पराजितः॥ 12-90-28(68323)
स यथा दर्पसहितमधर्मं नानुसेवते।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि॥ 12-90-29(68324)
मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः।
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात्॥ 12-90-30(68325)
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्॥ 12-90-31(68326)
एतेभ्योऽनित्ययुक्तः स्यान्नक्तं चर्यां च वर्जयेत्।
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत्॥ 12-90-32(68327)
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृप॥ 12-90-33(68328)
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः॥ 12-90-34(68329)
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति।
तस्माद्राज्ञा विशेषेणं वर्तितव्यं प्रजाहिते॥ 12-90-35(68330)
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्।
अधर्माः संप्रवर्धन्ते प्रजासंकरकारकाः॥ 12-90-36(68331)
अशीते विद्यते शीतं शीते शीतं न विद्यते।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः॥ 12-90-37(68332)
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः॥ 12-90-38(68333)
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति॥ 12-90-39(68334)
द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे।
कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम्॥ 12-90-40(68335)
ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठित॥ ॥ 12-90-41(68336)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवतितमोऽध्यायः॥ 90॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-90-1 अङ्गिराः आङ्गिरसाः॥ 12-90-12 न भार्यामधिगच्छन्तीति झ. पाठः॥ 12-90-15 धर्मो धर्मपालः॥ 12-90-16 कुरुते ह्यलमिति झ. पाठः। तत्र अलं वारणमित्यर्थः। तेन वृषं लुनाति च्छिनत्तीति वृषल इति योगो दर्शितः॥ 12-90-18 धर्मपदस्य द्वेधा व्युत्पत्तिमाह धनानीति। धारणाद्वा धर्मः। सीमान्तकरः यावत्पापं तावद्यातनाकर इत्यर्थः॥ 12-90-28 तं दर्पम्॥ 12-90-30 पौगण्डाद्वालकादज्ञादित्यर्थः। कदम्याशादुदावर्ताद्दुर्हृदां चापीति ट. पाठः॥ 12-90-32 अनित्ययुक्तः स्यात् नित्यमयुक्तः स्यादित्यर्थः। एकचर्यां च वर्जयेदिति द. पाठः॥ 12-90-34 अपुमांसः क्लीबाः। स्थूलजिह्वा मूकाः॥ 12-90-38 नक्षत्राणि धूमकेत्वादयः॥ 12-90-40 एकस्य धनं द्वावाददाते आच्छिद्य गृह्णीतः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|